|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.185. अध्यायः 185
Mahabharata - Shanti Parva - Chapter Topics
भृगुणा भरद्वाजंप्रति संघातातिरिक्तजीवसमर्थनपूर्वकं तन्निरूपणम्॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
भृगुरुवाच। 12-185-0x(5930)(72384)
न प्रणाशोऽस्ति जीवानां दत्तस्य च कृतस्य च।
याति देहान्तरं प्राणी शरीरं तु विशीर्यते॥ 12-185-1(72385)
न शरीराश्रितो जीवस्तस्मिन्नष्टे प्रणश्यति।
यथा समित्सु दग्धासु न प्रणश्यति पावकः॥ 12-185-2(72386)
भरद्वाज उवाच। 12-185-3x(5931)
अग्नेर्यथा समिद्धस्य यदि नाशो न विद्यते।
इन्धनस्योपयोगान्ते स चाग्निर्नोपलभ्यते॥ 12-185-3(72387)
नश्यतीत्येव जानामि शान्तमग्निमनिन्धनम्।
मतिर्यस्य प्रमाणं वा संस्थानं वा न दृश्यते॥ 12-185-4(72388)
भृगुरुवाच। 12-185-5x(5932)
`जीवस्य चेन्धनाग्नेश्च सदा नाशो न विद्यते।'
समिधामुपयोगान्ते सन्नेवाग्निर्न दृश्यते।
आकाशानुगतत्वाद्धि दुर्ग्रहः स निराश्रयः॥ 12-185-5(72389)
तथा शरीरसंत्यागे जीवो ह्याकाशमाश्रितः।
न गृह्यते तु सूक्ष्मत्वाद्यथा ज्योतिरनिन्धनम्॥ 12-185-6(72390)
प्राणान्धारयते योऽग्निः स जीव उपधार्यताम्।
वायुसंधारणो ह्यग्निर्नश्यत्युच्छ्वासनिग्रहात्॥ 12-185-7(72391)
तस्मिन्नष्टे शरीराग्नौ शरीरं तदचेतनम्।
पतितं याति भूमित्वमयनं तस्य हि क्षितिः॥ 12-185-8(72392)
जङ्गमानां हि सर्वेषां स्थावराणां तथैव च।
आकाशं पवनोऽन्वेति ज्योतिस्तमनुगच्छति।
तेषां त्रयाणामेकत्वं द्वयं भूमौ प्रतिष्ठितम्॥ 12-185-9(72393)
यत्र खं तत्र पवनस्तत्राग्निर्यत्र मारुतः।
अमूर्तयस्ते विज्ञेया आपो मूर्तास्तथा क्षितिः॥ 12-185-10(72394)
भरद्वाज उवाच। 12-185-11x(5933)
यद्यग्निमारुतौ भूमिः खमापश्च शरीरिषु।
जीवः किंलक्षणस्तत्रेत्येतदाचक्ष्व मेऽनघ॥ 12-185-11(72395)
पञ्चात्मके पञ्चरतौ पञ्चविज्ञानसंयुते।
शरीरे प्राणिनां जीवं वेत्तुमिच्छामि यादृशम्॥ 12-185-12(72396)
मांसशोणितसंघाते मेदः स्नाय्वस्थिसंचये।
भिद्यमाने शरीरे तु जीवो नैवोपलभ्यते॥ 12-185-13(72397)
यद्यजीवं शरीरं तु पञ्चभूतसमन्वितम्।
शारीरे मानसे दुःखे कस्तां वेदयते रुजम्॥ 12-185-14(72398)
शृणोति कथितं जीवः कर्णाभ्यां न शृणोति तत्।
महर्षे मनसि व्यग्रे तस्माज्जीवो निरर्थकः॥ 12-185-15(72399)
सर्वं पश्यति यद्दृश्यं मनोयुक्तेन चक्षुषा।
मनसि व्याकुले तस्मिन्पश्यन्नपि न पश्यति॥ 12-185-16(72400)
न पश्यति न चाघ्राति न शृणोति न भाषते।
न च स्पर्शरसौ वेत्ति निद्रावशगतः पुनः॥ 12-185-17(72401)
हृष्यति क्रुध्यते कोऽत्र शोचत्युद्विजते च कः।
इच्छति ध्यायति द्वेष्टि वाचमीरयते च कः॥ 12-185-18(72402)
भृगुरुवाच। 12-185-19x(5934)
न पञ्चसाधारणमत्र किंचि
च्छरीरमेकी वहतेऽन्तरात्मा।
स वेत्ति गन्धांश्च रसाञ्श्रुतीश्च
स्पर्शं च रूपं च गुणाश्च येऽन्ये॥ 12-185-19(72403)
पञ्चात्मके पञ्चगुणप्रदर्शी
स सर्वगात्रानुगतोऽन्तरात्मा।
स वेत्ति दुःखानि सुखानि चात्र
तद्विप्रयोगात्तु न वेत्ति देही॥ 12-185-20(72404)
यदा न रूपं न स्पर्शो नोष्मभावश्च पञ्चके।
तदा शान्ते शरीराग्नौ देहं त्यक्त्वा न नश्यति॥ 12-185-21(72405)
अम्मयं सर्वमेवेदमापो मूर्तिः शरीरिणाम्।
तत्रात्मा मानसो ब्रह्मा सर्व भूतेषु लोककृत्॥ 12-185-22(72406)
[आत्मा क्षेत्रज्ञ इत्युक्तः संयुक्तः प्राकृतैर्गुणैः।
तैरेव तु विनिर्मुक्तः परमात्मेत्युदाहृतः॥] 12-185-23(72407)
आत्मानं तं विजानीहि सर्वलोकविपाचकम्।
स तस्मिन्संश्रितो देहे ह्यब्बिन्दुरिव पुष्करे॥ 12-185-24(72408)
क्षेत्रज्ञं तं विजानीहि नित्यं लोकहितात्मकम्।
तमो रजश्च सत्त्वं च विद्धि जीवगुणानिमान्॥ 12-185-25(72409)
सचेतनं जीवगुणं वदन्ति
स चेष्टते चेष्टयते च सर्वम्।
ततः परं क्षेत्रविदो वदन्ति
प्रावर्तयद्यो भुवनानि सप्त॥ 12-185-26(72410)
न जीवनाशोऽस्ति हि देहभेदे
मिथ्यैतदाहुर्मुत इत्यबुद्धाः।
जीवस्तु देहान्तरितः प्रयाति
दशार्धतैवास्य शरीरभेदः॥ 12-185-27(72411)
एवं सर्वेषु भूतेषु गूढश्चरति संवृतः।
दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया तत्त्वदर्शिभिः॥ 12-185-28(72412)
तं पूर्वापररात्रेषु युञ्जानः सततं बुधः।
लध्वाहारो विशुद्धात्मा पश्यत्यात्मानंमात्मनि॥ 12-185-29(72413)
चित्तस्य हि प्रसादेन हित्वा कर्म शुभाशुभम्।
प्रसन्नात्माऽत्मनि स्थित्वा सुखमव्ययमश्नुते॥ 12-185-30(72414)
मानसोऽग्निः शरीरेषु जीव इत्यभिधीयते।
सृष्टिः प्रजापतेरेषा भूताध्यात्मविनिश्चया॥ ॥ 12-185-31(72415)
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि पञ्चाशीत्यधिकशततमोऽध्यायः॥ 185॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-185-1 एतद्दूषयति न प्रणाश इति॥ 12-185-3 अनुपलब्धेरग्नेरपि नाश एवेत्यर्थः॥ 12-185-5 दग्धेन्धनाग्निवत्सन्नेवात्मा देहनाशे सति सौक्ष्म्यान्नोपलभ्यत इत्यर्थः॥ 12-185-6 जीवो ह्याकाशवत्स्थित इति झ.ड. पाठः॥ 12-185-10 अमूर्तयः अदृश्याः। अतस्तेषामप्यभावावधारणं दुःशकं किमुत सूक्ष्मस्य जीवस्येति भावः॥ 12-185-11 शरीरिषु शरीराकारपरिणामवत्सु संघातेषु॥ 12-185-12 पञ्चभूतात्मके पञ्चविषयरतौ। पञ्चविज्ञानानि ज्ञानकारणानि॥ 12-185-15 मास्तु देहेन्द्रियसंघातश्चेतनो यस्मिन्व्यग्रे सति संघातः सन्निकृष्टोऽपि शब्दादीन्न गृह्णाति तन्मन एव आत्मास्त्वित्याह चतुर्भिः शृणोतीत्यादिभिः॥ 12-185-19 पञ्चसाधारणं पञ्चेन्द्रियाधारं किंचिन्मनो न श्रूयते किंतु अन्तरात्मा जीव एव वहते धारयति॥ 12-185-20 तद्विप्रयोगात् ते न मनसा वियोगे॥ 12-185-21 देहं त्यक्त्वा स गच्छति इति ट. पाठः॥ 12-185-24 सर्वलोकविधायकमिति ध. ड. थ. पाठः॥ 12-185-26 क्षेत्रविदं वदन्तीति ट. पाठः॥ 12-185-27 दशार्धता पञ्चत्वम्। शरीरनाश एव जीवस्य मरणमित्युच्यते॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|